श्रवणम्

6.47.22
प्र॒स्तो॒क इन्नु राध᳚सस्त इन्द्र॒ दश॒ कोश᳚यी॒र्दश᳚ वा॒जिनो᳚॑दात् ।
दिवो᳚दासादतिथि॒ग्वस्य॒ राधः᳚ शाम्ब॒रं वसु॒ प्रत्य᳚ग्रभीष्म ॥
▶ पदपाठः (Word-by-word)
प्र॒स्तो॒कः । इत् । नु । राध᳚सः । ते॒ । इ॒न्द्र॒ । दश᳚ । कोश᳚यीः । दश᳚ । वा॒जिनः᳚ । अ॒दा॒त् ।
दिवः᳚॑दासात् । अ॒ति॒थि॒॑ग्वस्य᳚ । राधः᳚ । शा॒म्ब॒रम् । वसु᳚ । प्रति᳚ । अ॒ग्र॒भी॒ष्म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदाद्यासुचतसृषुसृंजयपुत्रस्यप्रस्तोकस्यराज्ञोदानस्तुतिः सएवदिवोदासःअश्वथःअतिथिग्वइतिचाख्यायते हेइन्द्र तेतवराधसःआ- राधयितुःस्तोतुः चतुर्थ्यर्थेषष्ठी त्वांस्तुवते मह्यंगर्गायप्रस्तोकोराजादशकोशयीः सुवर्णपूर्णान् दशसंख्याकान् कोशान् दशवाजिनोश्वांश्च नुक्षिप्रंअदात् प्रायच्छत् इदितिपूरणः वयंचतस्माद्दिवोदासात् एतत्संज्ञात् प्रस्तोकात् बसुधनंप्रत्यग्रभीष्म प्रतिगृहीतवन्तः कीदृशं अति- थिग्वस्य तस्यैवप्रस्तोकस्यस्वभूतंराधःराधकं शांबरं शंबरादसुरादागतंशंबरंहत्वा त्वयादत्तंतदीयमित्यर्थः ॥ २२ ॥