श्रवणम्

6.47.14
अव॒ त्वे इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते ।
उ॒रू न राध॒ः सव᳚ना पु॒रूण्य॒पो गा व᳚ज्रिन्युवसे॒ समिन्दू᳚न् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । त्वे इति᳚ । इ॒न्द्र॒ । प्र॒॑वतः᳚ । न । ऊ॒र्मिः । गिरः᳚ । ब्रह्मा᳚णि । नि॒॑युतः᳚ । ध॒व॒न्ते॒ ।
उ॒रु । न । राधः᳚ । सव᳚ना । पु॒रूणि᳚ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेत्वांनियुतःस्तोतुःगिरः उक्थात्मिकावाचः ब्रह्माणिसामरूपाणिस्तोत्राणिच अवधवन्ते अवगच्छन्ति तत्रदृष्टान्तः—ऊर्मिःज- लसंघः प्रवतोन प्रवणदेशानिव यथाउच्छ्रितात्स्थलान्निम्नदेशंशीघ्रंगच्छतितद्वत् नशब्दःसमुच्चये उरुउरूणि राधोराधांसिच हविर्लक्षणा- निधनानि पुरूणीबहूनि सवनासवनानि बहवोभिषुताःसोमाश्च त्वामेवाभिगच्छन्ति हेवज्रिन् वज्रवन्निन्द्र अपोवसतीवर्याख्यागाःगोवि- कारान् श्र्उतदध्यादीन् श्रयणार्थान् इन्दून् सोमांश्च संयुवसेसम्यग्मिश्रयसि त्वांयष्टिंवसतीवरीभिरभिषुत्यतंसोममाशिरादिभिः श्रपण- द्रव्यैः संस्कुर्वन्तीत्यर्थः ॥ १४ ॥