श्रवणम्

6.47.11
त्रा॒तार॒मिन्द्र᳚मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् ।
ह्वया᳚मि श॒क्रं पु᳚रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
त्रा॒तार᳚म् । इन्द्र᳚म् । अ॒वि॒तार᳚म् । इन्द्र᳚म् । हवे᳚॑हवे । सु॒॑हव᳚म् । शूर᳚म् । इन्द्र᳚म् ।
ह्वया᳚मि । श॒क्रम् । पु॒रु॒॑हू॒तम् । इन्द्र᳚म् । स्व॒स्ति । नः॒ । म॒घ॑वा᳚ । धा॒तु॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रातारंशत्रुभ्यःपालयितारमिन्द्रमाह्वयामि तथाअवितारं कामैस्तर्पयितारमिन्द्रमाह्वयामि हवेहवेसर्वेष्वाहवनेषु सुहवंसुखेनाह्वा- तुंशक्यंशूरंशौर्यवन्तं शक्रंसर्वकार्येषुशक्तं पुरुहूतंपुरुभिर्बहुभिः पालनार्थमाहूतं एवंविधमिन्द्रंह्वयाम्याह्वयामि एवमाहूतोमघवाधनवा- न्सइन्द्रःस्वस्ति अविनाशंनोस्मभ्यंधातुददातु यद्वास्माकंविदधातु ॥ ११ ॥