श्रवणम्

6.47.7
इन्द्र॒ प्र णः᳚ पुरए॒तेव᳚ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒ अच्छ᳚ ।
भवा᳚ सुपा॒रो अ᳚तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । नः॒ । पु॒र॒ए॒ता॑इ᳚व । पश्य᳚ । प्र । नः॒ । न॒य॒ । प्र॒॑त॒रम् । वस्यः᳚ । अच्छ᳚ ।
भव᳚ । सु॒॑पा॒रः । अ॒ति॒॑पा॒र॒यः । नः॒ । भव᳚ । सु॑नी᳚तिः । उ॒त । वा॒म॑नी᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंपुरएतेव पुरतोगंतेव नोस्मान् प्रपश्य प्रकर्षेणईक्षस्व यथामार्गरक्षकः स्वयंपुरतोगच्छन् अनुगच्छतोरक्षणीयान् पथिकान् प- श्यति तथापश्येत्यर्थः तथावस्योवसीयः श्रेष्ठंधनंअच्छाभिमुख्येनप्रतरं प्रकृष्टतरंअतिशयेनप्रणयअस्मान् प्रापय तथासुपारः सुष्ठुपारयिता दुःखेभ्यस्तारयिताभव तथानोस्मान् स्तोतॄन् अतिपारयः शत्रूनतिक्रामय सुनीतिःशोभननयनश्चास्माकंभव उतापिच वामनीतिः वामा- नांवननीयानांधनानांनेताभव यद्वास्मदर्थंश्रेष्ठप्रापणोभव ॥ ७ ॥ ऎन्द्रेपशौउरुंनइत्येषावपायायाज्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वान् प्रससाहिषेपुरुहूतशत्रूनिति । होत्रकैः सदः प्रसर्पणसमये- प्येषाजप्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिजपंतइति । चातुर्विंशिकेहन्यहर्गणेषुचद्वितीयादिष्वहःसुमाध्यंदिनसवनेच्छावाक- स्यैषाचारंभणीया सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिकद्वद्भ्यआरंभणीयाइति ।