श्रवणम्

6.17.10
अध॒ त्वष्टा᳚ ते म॒ह उ᳚ग्र॒ वज्रं᳚ स॒हस्र᳚भृष्टिं ववृतच्छ॒ताश्रि᳚म् ।
निका᳚मम॒रम᳚णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि᳚णगृजीषिन् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वष्टा᳚ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र᳚म् । स॒हस्र᳚॑भृष्टिम् । व॒वृ॒त॒त् । श॒त॑अ᳚श्रिम् ।
नि॑का᳚मम् । अ॒र॑म᳚नसम् । येन᳚ । नव᳚न्तम् । अहि᳚म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाधुना हेउग्र उद्गूर्णबलेन्द्र महोमहतस्तव त्वष्टा देवशिल्पी वज्रं ववृतत् न्यवर्तयत् निष्पन्नंकृतवान् कीदृशं सहस्रभृष्टिं सहस्रधारं शताश्रिं शतपर्वाणं हेऋजीषिन् गतरससोमवन्निन्द्र येनवज्रेण निकामं नियतःकामोयस्यतं अरमनसं शत्रूणामरमभिगन्तृमनोयस्यतं नवन्तं शब्दायमानं अहिं वृत्रमसुरं संपिणक् संपिष्टवानसि तंवज्रंकृतवानित्यर्थः ॥ १० ॥