श्रवणम्

6.17.4
ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता उ᳚क्षयन्त द्यु॒मन्त᳚म् ।
म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ॥
▶ पदपाठः (Word-by-word)
ते । त्वा॒ । मदाः᳚ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒॑वः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒॑मन्त᳚म् ।
म॒हाम् । अनू᳚नम् । त॒वस᳚म् । वि॑भू᳚तिम् । म॒त्स॒रासः᳚ । ज॒र्हृ॒ष॒न्त॒ । प्र॒॑सह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्वधावः अन्नवन्निन्द्र मदाः मदकराः तइमेपीताःसोमाः द्युमन्तं दीप्तिमन्तं त्वा त्वां बृहदत्यन्तं उक्षयन्त सिंचयन्तु अपिच हेइन्द्र त्वां मत्सरासोमदकराः सोमाः जर्हृषन्त भृशंहर्षयन्तु कीदृशं महां महान्तं प्रभूतं अनूनं सर्वगुणैर्न्युनतारहितं संपूर्णमित्यर्थः तवसं प्रवृद्धं विभूतिं विभवन्तं प्रसाहं शत्रूणामभिभवितारं ॥ ४ ॥