स नो॒ वाजा᳚य॒ श्रव᳚स इ॒षे च᳚ रा॒ये धे᳚हि द्यु॒मत᳚ इन्द्र॒ विप्रा᳚न् ।
भ॒रद्वा᳚जे नृ॒वत᳚ इन्द्र सू॒रीन्दि॒वि च᳚ स्मैधि॒ पार्ये᳚ न इन्द्र ॥
भ॒रद्वा᳚जे नृ॒वत᳚ इन्द्र सू॒रीन्दि॒वि च᳚ स्मैधि॒ पार्ये᳚ न इन्द्र ॥
पदपाठः (Word-by-word)
सः । नः॒ । वाजा᳚य । श्रव᳚से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒॑मतः᳚ । इ॒न्द्र॒ । विप्रा᳚न् ।
भ॒रत्॑वा᳚जे । नृ॒॑वतः᳚ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये᳚ । नः॒ । इ॒न्द्र॒ ॥
भ॒रत्॑वा᳚जे । नृ॒॑वतः᳚ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये᳚ । नः॒ । इ॒न्द्र॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र सत्वं द्युमतोदीप्तिमतः विप्रान्मेधाविनोस्मान् वाजाय बलाय श्रवसे यशसे इषेचान्नायच राये धनाय धेहिधारय अपिच हेइन्द्र भरद्वाजेमयि नृवतोमनुष्यवतः परिचारकयुक्तानित्यर्थः सूरीन् तवस्तोतॄन् पुत्रपौत्रान्कुर्वितिशेषः हेइन्द्र त्वं पार्ये पारणीये आगामिनिच दिविदिवसे एधिस्म नोस्माकंरक्षिताखलुभवेत्यर्थः ॥ १४ ॥ षष्ठोनितृतीयसवनेब्राह्मणाच्छंसिशस्त्रे अनुरूपतृचस्य अयावाजमितितृतीया सूत्रितंच—अयावाजंदेवहितंसनेमेतिस्तोत्रियानरूपा- विति ।