श्रवणम्

6.21.1
इ॒मा उ᳚ त्वा पुरु॒तम᳚स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते ।
धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । पु॒रु॒॑तम᳚स्य । का॒रोः । हव्य᳚म् । वी॒र॒ । हव्याः᳚ । ह॒व॒न्ते॒ ।
धियः᳚ । र॒थे॒॑स्थाम् । अ॒जर᳚म् । नवी᳚यः । र॒यिः । वि॑भू᳚तिः । ई॒य॒ते॒ । व॒च॒स्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुतमस्य बहुलंकामंकांक्षतः तमुअभिकांक्षायामितिधातुः कारोः स्तोतुर्भरद्वाजस्यसंबन्धिन्यः हव्याः स्तुत्याः प्रशस्याः इमाधियः स्तुतयः हेवीर शूरेन्द्र हव्यं त्वा त्वां हवंते ह्वयन्ति कीदृशं रथेस्थां रथेस्थितं अजरं जरारहितं नवीयोनवीयांसं नवतरं उइतिपूरणःअपि- च वचस्या स्तुत्या श्रेष्ठाविभूतिः जगतोविभव्हेतुः रयिर्हविर्लक्षणंधनं ईयते त्वामभिगच्छति ॥ १ ॥