श्रवणम्

6.21.3
स इत्तमो᳚॑वयु॒नं त᳚त॒न्वत्सूर्ये᳚ण व॒युन᳚वच्चकार ।
क॒दा ते॒ मर्ता᳚ अ॒मृत᳚स्य॒ धामेय᳚क्षन्तो॒ न मि᳚नन्ति स्वधावः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । तमः᳚ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये᳚ण । व॒युन᳚॑वत् । च॒का॒र॒ ।
क॒दा । ते॒ । मर्ताः᳚ । अ॒मृत᳚स्य । धाम᳚ । इय᳚क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइत् सएवेन्द्रः अवयुनं अपज्ञानं प्रज्ञाननाशनमित्यर्थः ततन्वत् वृत्रेणविस्तीर्यमाणंतमोन्धकारं दिविसूर्येण दिव्यारोपितेमदेवेन वयुनवत् प्रकाशवत् चकार कृतवान् परोर्धर्चःप्रत्यक्षकृतः हेस्वधावः बलवन्निन्द्र मर्ताः मनुष्याः अमृतस्य नित्यस्य तेत्वदीयं धामस्वर्गा- ख्यंस्थानं तत्रस्थान् देवानित्यर्थः इयक्षंतः यष्टुमिच्छन्तः कदा कदाचित् सर्वदेत्यर्थः नमिनन्ति किमपिप्राणिजातंनहिंसन्ति ॥ ३ ॥