विश्वे᳚ दे॒वाः सम᳚नस॒ः सके᳚ता॒ एकं॒ क्रतु᳚म॒भि वि य᳚न्ति सा॒धु ॥
पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । स॑म᳚नसः । स॑के᳚ताः । एक᳚म् । क्रतु᳚म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥
सायणभाष्यम् (Sayana Commentary)
ध्रुवं निश्चलं मनः मनसः त्स्मादपि जविष्ठं अतिशयेनवेगवत् ईदृशंवैश्वानराख्यंज्योतिः पतयत्सु गच्छत्सु जंगमेषुप्राणिषु अन्तर्मध्ये निहितं प्रजापतिवास्थापितं किमर्थं दृशये कंदर्शनार्थं किंच विश्वेसर्वेदेवाश्च समनसः समानमनस्काः सकेताः समानप्रज्ञाश्चसन्तः एकं मुख्यं गन्तारंवा क्रतुं कर्मणांकर्तारं वैश्वानरं साधु सम्यक् अभिवियन्ति आभिमुख्येनविविधंप्राप्नुवन्ति सेवन्तइत्यर्थः यद्वा पतयत्सु गच्छत्सु प्राणिष्वन्तर्मध्ये हृदये मनोजविष्ठं मनसोप्यतिशयेनवेगयुक्तं ध्रुवं निश्चलं निर्विकल्पं तथाचवाजसनेयकं—अनेजदेकंमनोजवी- यइति । ज्योतिः ब्रह्मचैतन्यं निहितं नकेनचित् स्थापितं योवेदनिहितंगुहायांपरमेव्योमन्नितिहि श्रूयते । किमर्थं दृशये दर्शनार्थं ज्ञानेन- हिसर्वंजानन्ति अपिच दीव्यन्तीतिदेवाइन्द्रियाणि विश्वे सर्वेदेवाः सर्वाणींद्रियाणि चक्षुराद्याः समनसः मनसासहवर्तमानाः सकेताः सतेजस्काः सन्तः एकमद्वितीयं क्रतुं सृष्ट्यादीनांकर्मणांकर्तारं विश्वनरात्मकं परमात्मानं अभिलक्ष्य साधु सम्यक् वियन्ति विविधंगच्छ- न्ति देवाएववा इमं अभिवियन्ति आभिमुख्येन विविधमुपयन्ति उपासतइत्यर्थः तथाचश्रूयते—तद्देवाज्योतिषांज्योतिरायुर्होपासतेमृत- मिति ॥ ५ ॥