श्रवणम्

6.9.7 समानपद
विश्वे᳚ दे॒वा अ᳚नमस्यन्भिया॒नास्त्वाम᳚ग्ने॒ तम᳚सि तस्थि॒वांस᳚म् ।
वै॒श्वा॒न॒रो᳚॑वतू॒तये॒ नो॑म᳚र्त्यो॑वतू॒तये᳚ नः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम᳚सि । त॒स्थि॒॑वांस᳚म् ।
वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये᳚ । नः॒ । अम᳚र्त्यः । अ॒व॒तु॒ । ऊ॒तये᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवैश्वानर तमस्यन्धकारे तस्थिवांसं स्थितवन्तंत्वां विश्वे सर्वेदेवाः अनमस्यन् नमस्कुर्वंति कुतोहेतोः भियानाः अन्धकाराद्भीताः तादृशोऽमर्त्योमरणरहितोवैशानरोग्निः नोस्मान् ऊतयेऊत्या रक्षणेनावतु रक्षत पुनरुक्तिराद्रार्था ॥ ७ ॥

पुरोवइतिसप्तर्चंदशमंसूक्तं भरद्वाजस्यार्षमाग्नेयं सप्तमीविंशिकाद्विपदाविराट् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—पुरोवोद्विपदान्तम् । प्रातरनुवाकेआग्नेयेक्रतौ त्रैष्टुभेछन्दसीदमादीनिचत्वारिसूक्तानि सूत्रितंच—पुरोवोमन्द्रमितिचत्वारितंसुप्रतीकमितिषळिति ।