प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु᳚पा॒णिं दे॒वं सु॒गभ᳚स्ति॒मृभ्व᳚म् ।
होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ॥
होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ॥
पदपाठः (Word-by-word)
प्र॒थ॒म॒॑भाज᳚म् । य॒शस᳚म् । व॒यः॒॑धाम् । सु॒॑पा॒णिम् । दे॒वम् । सु॒॑गभ᳚स्तिम् । ऋभ्व᳚म् ।
होता᳚ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या᳚नाम् । अ॒ग्निः । त्वष्टा᳚रम् । सु॒॑हव᳚म् । वि॒भा॑वा᳚ ॥
होता᳚ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या᳚नाम् । अ॒ग्निः । त्वष्टा᳚रम् । सु॒॑हव᳚म् । वि॒भा॑वा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रथमभाजं प्रथमेउत्पत्तिकालएवविभक्तारंजंतूनां यावच्छोवैरेतसः सिक्तस्यत्वष्टारूपाणिविकरोतितावच्छोवैतत्प्रजायतइतिश्रुतेः । यशसंयशस्विनं वयोधांवयसोन्नस्यहविर्लक्षणस्यधातारं धारयितारं यद्वा स्तोतृभ्योन्नप्रदं सुपाणिंहस्तस्यमणिबंधादुर्ध्वप्रदेशः पाणिः शोभनपाणिकंदेवंदानादिगुणयुक्तंसुगभस्तिं गभस्तिरितिबाहुनाम शोभनदोर्दंडं ऋभ्वंउरुभासमानं महान्तंवापस्त्यानां पस्त्यमिति- गृहनाम तत्स्थानांयजतंयष्टव्यं गृहस्थैर्यजनीयमित्यर्थः सुहवंसुखेनह्वातुंशक्यं एवंभूतंत्वष्टारंहोतादेवानामाह्वाता विभावा दीप्यमा- नोग्निः यक्षत् यजत् अनेनहविषायजतु ॥ ९ ॥