श्रवणम्

6.49.3
अ॒रु॒षस्य᳚ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि᳚र॒न्या पि᳚पि॒शे सूरो᳚ अ॒न्या ।
मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म᳚ श्रु॒तं न᳚क्षत ऋ॒च्यमा᳚ने ॥
▶ पदपाठः (Word-by-word)
अ॒रु॒षस्य᳚ । दु॒हि॒तरा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । स्तृ॑भिः᳚ । अ॒न्या । पि॒पि॒शे । सूरः᳚ । अ॒न्या ।
मि॒थः॒॑तुरा᳚ । वि॒चर᳚न्ती॒ इति᳚ वि॒॑चर᳚न्ती । पा॒व॒के इति᳚ । मन्म᳚ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा᳚ने॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमहोरात्रयोःस्तुतिः अरुशस्यरोचमानस्यसूर्यस्यदुहितरौ सूर्येणहिअहोरात्रयोर्विभागःक्रियते अतस्तधीनात्मलाभत्वात् तस्यदुहित- रावित्युच्यते विरूपेशुक्लकृष्णतयानानारूपेतयोरन्याएकारात्रिःस्तृभिर्नक्षत्रैः पिपिशेपिश्यते संश्लिष्यते पिशअवयवइतिधातुः अन्याअह- रात्मिकादुहिता सूरःसूर्येणपिपिशेसंश्लिष्यते तेचनक्षत्रैः सूर्येणचालंकृतेभवतइत्यर्थः मिथस्तुरापरस्परंबाधयंत्यौअह्नारात्रिर्निवर्त्यते रा- त्र्याचाहरितिपरस्परंबाधः अतएवविचरन्तीविविधंपृथक् चरंत्यौपावकेस्र्वस्यशोधयित्र्यौ एवंभूतेअहश्चरात्रिश्चऋच्यमाने अस्माभिःस्तू- यमानेसत्यौ श्रुतं श्रोतव्यंमन्ममननीयं स्तोत्रमस्मत्कृतंनक्षतःव्याप्नुतां ॥ ३ ॥