श्रवणम्

6.49.2
वि॒शोवि᳚श॒ ईड्य᳚मध्व॒रेष्वदृ᳚प्तक्रतुमर॒तिं यु᳚व॒त्योः ।
दि॒वः शिशुं॒ सह᳚सः सू॒नुम॒ग्निं य॒ज्ञस्य᳚ के॒तुम᳚रु॒षं यज᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
वि॒शः॑वि᳚शः । ईड्य᳚म् । अ॒ध्व॒रेषु᳚ । अदृ᳚प्त॑क्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।
दि॒वः । शिशु᳚म् । सह᳚सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य᳚ । के॒तुम् । अ॒रु॒षम् । यज᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

विशोविशः सर्वस्याः प्रजायाः अध्वरेषुयज्ञेषुईड्यं ऋत्विग्भ्यःस्तुत्यं अदृप्तक्रतुंदर्परहितकर्माणंअमूढप्रज्ञंवा युवत्योर्द्यावापृथिव्योर- रतिमभिगन्तारंअर्यंस्वामिनंदिवोद्युलोकस्यशिशुंपुत्रं दिवस्परिप्रथमंजज्ञेअग्निरितिनिगमः । अथवादिवःस्तोतुःपुत्रभूतं तथापिनिगमोभ- वति त्वंपुत्रोभवसियस्तेविधदिति सहसोबलस्यसूनुंपुत्रंयज्ञस्ययागस्यकेतुंप्रज्ञापकं अरुषमारोचमानं एवंगुणकमग्निंयजध्यैयष्टुंस्तुषइत्य- नुषज्यते स्तुषेस्तुवे ॥ २ ॥