अ॒यमु᳚शा॒नः पर्यद्रि᳚मु॒स्रा ऋ॒तधी᳚तिभिरृत॒युग्यु᳚जा॒नः ।
रु॒जदरु᳚ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णी{4}र्वचो᳚भिर॒भि यो᳚ध॒दिन्द्र᳚ः ॥
रु॒जदरु᳚ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णी{4}र्वचो᳚भिर॒भि यो᳚ध॒दिन्द्र᳚ः ॥
पदपाठः (Word-by-word)
अ॒यम् । उ॒शा॒नः । परि᳚ । अद्रि᳚म् । उ॒स्राः । ऋ॒तधी᳚ति॑भिः । ऋ॒त॒॑युक् । यु॒जा॒नः ।
रु॒जत् । अरु᳚ग्णम् । वि । व॒लस्य᳚ । सानु᳚म् । प॒णीन् । वचः᳚॑भिः । अ॒भि । यो॒ध॒त् । इन्द्रः᳚ ॥
रु॒जत् । अरु᳚ग्णम् । वि । व॒लस्य᳚ । सानु᳚म् । प॒णीन् । वचः᳚॑भिः । अ॒भि । यो॒ध॒त् । इन्द्रः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः अद्रिं बलेन गोपिधानाय निर्मितं शिलोच्चयं परि परितः पर्वतसमीपे विद्यमानाउस्रागाः उशानः कामयमानः ऋतधीति- भिः सत्यकर्मभिः अंगिरोभिः युजानः संगच्छमानः ऋतयुक् ऋतेनतत्कृतेनस्तोत्रेणयुक्तश्च भूत्वा बलस्यासुरस्य स्वभूतं सानुमुच्छ्रितंपर्वतं अरुग्णं अन्यैरभग्नं विरुजत् व्यभांक्षीत् किंच पणीन् बलानुचरानेतत्संज्ञानसुरांश्च वचोभिः स्तुत्यैरायुधैः संतर्जनरूपैर्वाक्यैरेववायमिन्द्रः अभियोधत् अभ्ययुध्यत् ॥ २ ॥