नू॒नं न᳚ इन्द्राप॒राय᳚ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚ अ॒भिष्टौ᳚ ।
इ॒त्था गृ॒णन्तो᳚ म॒हिन᳚स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत᳚माः ॥
इ॒त्था गृ॒णन्तो᳚ म॒हिन᳚स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत᳚माः ॥
पदपाठः (Word-by-word)
नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय᳚ । च॒ । स्याः॒ । भव᳚ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ᳚ ।
इ॒त्था । गृ॒णन्तः᳚ । म॒हिन᳚स्य । शर्म᳚न् । दि॒वि । स्या॒म॒ । पार्ये᳚ । गो॒स॑त᳚माः ॥
इ॒त्था । गृ॒णन्तः᳚ । म॒हिन᳚स्य । शर्म᳚न् । दि॒वि । स्या॒म॒ । पार्ये᳚ । गो॒स॑त᳚माः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं नूनं अद्य नोस्माकं स्याः अस्मदीयोभव अपरायच अपरस्मिन्नन्यस्मिन्नपि काले अस्मदीयोभव उत अपिच त्वं नोस्माकं अभिष्टावभिगमनेसति मृळीकः सुखयिताभव इत्था इत्थमनेनप्रकारेण गृणन्तःस्तुवन्तोवयं गोषतमाः गवांसंभक्तॄतमाः सन्तः महिनस्य महतस्तवसंबन्धिनि दिवि द्योतमाने पार्येदुःखस्यपारके शर्मन् शर्मणि सुखे स्याम वर्तमानाभवेम ॥ ५ ॥
संचत्वेजग्मुरितिपंचर्चमेकादशंसूक्तं शुनहोत्रस्यार्षमैन्द्रंत्रैष्टुभं संचत्वइत्यनुक्रान्तम् । तृतीयेछान्दोमिकेहनिइदमादिकेद्वेसूक्ते सूत्रितंच— संचत्वेजग्मुरितिसूक्तेइति । महाव्रतेपिनिष्केवल्ये उक्तोविनियोगः ।