य ओजि᳚ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्त्स्वभि॒ष्टिर्दास्वा᳚न् ।
सौव᳚श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु᳚ सा॒सह᳚द॒मित्रा᳚न् ॥
सौव᳚श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु᳚ सा॒सह᳚द॒मित्रा᳚न् ॥
पदपाठः (Word-by-word)
यः । ओजि᳚ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः᳚ । वृ॒ष॒न् । सु॒॑अ॒भि॒ष्टिः । दास्वा᳚न् ।
सौव᳚श्व्यम् । यः । व॒नव᳚त् । सु॒॑अश्वः᳚ । वृ॒त्रा । स॒मत्॑सु᳚ । स॒सह᳚त् । अ॒मित्रा᳚न् ॥
सौव᳚श्व्यम् । यः । व॒नव᳚त् । सु॒॑अश्वः᳚ । वृ॒त्रा । स॒मत्॑सु᳚ । स॒सह᳚त् । अ॒मित्रा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेवृषन् कामानां वर्षयितरिंद्र त्वंयःपुत्रः ओजिष्ठओजस्वितमोबलवत्तमः मदः तवमादयिता स्तुतिभिः स्तोतेत्यर्थः स्वभिष्टिः शोभना- भ्योषणः दास्वान् हविषांदानं दाः तद्वान् एवंगुणविशिष्टंतंपुत्रं नोस्मभ्यं सु सुष्ठु दाः देहि यःपुत्रः स्वश्वःसन् समत्सु संग्रामेषु सौवश्व्यं शोभनाश्वानांसमूहं वनवत् हिंस्यात् तथा वृत्रा वृत्रान् वारयितॄन् अमित्रान् शत्रूंश्च सासहत् अस्यर्थमभिभवेत् तंदाइत्यन्वयः ॥ १ ॥