श्रवणम्

6.33.4
स त्वं न᳚ इ॒न्द्राक᳚वाभिरू॒ती सखा᳚ वि॒श्वायु᳚रवि॒ता वृ॒धे भू᳚ः ।
स्व᳚र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि᳚ता पृ॒त्सु शू᳚र ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक᳚वाभिः । ऊ॒ती । सखा᳚ । वि॒श्व॑आ᳚युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।
स्वः᳚॑साता । यत् । ह्वया᳚मसि । त्वा॒ । युध्य᳚न्तः । ने॒म॑धि᳚ता । पृ॒त्॑सु । शू॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सतादृशस्त्वं अकवाभिरकुत्सिताभिः ऊती ऊतिभिः रक्षाभिः नोस्माकं वृधे वर्धनाय अविता रक्षिताभूर्भव तथा विशायुः सर्व- तोगन्तात्वं अस्माकं सखाचभव नेमधिता नेमशब्दोर्धवाची उक्तंचःवोनेमइत्यर्धस्येति नेमे अर्धाः कतिपयाःपुरुषाः धीयन्तेऎष्वितिने- मधितयःसंग्रामाः तादृशेषुपृत्सुपृतनासुसंग्रामेषु युध्यन्तोयुद्धंकुर्वन्तोवयं स्वर्षाता स्वः सुष्ठु अरणीयंधनंतस्यसंभजनार्थे हेशूर त्वां यद्यदा- ह्वयामसि आह्वयामः तदानीं त्वं अवेतासखाचभवेत्यर्थः ॥ ४ ॥