अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त᳚मुरु॒ष्यति᳚ ।
स॒हावा॒ यस्यावृ᳚तो र॒यिर्वाजे॒ष्ववृ᳚तः ॥
स॒हावा॒ यस्यावृ᳚तो र॒यिर्वाजे॒ष्ववृ᳚तः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । हि । वि॒द्मना᳚ । नि॒दः । दे॒वः । मर्त᳚म् । उ॒रु॒ष्यति᳚ ।
स॒ह॑वा᳚ । यस्य᳚ । अवृ᳚तः । र॒यिः । वाजे᳚षु । अवृ᳚तः ॥
स॒ह॑वा᳚ । यस्य᳚ । अवृ᳚तः । र॒यिः । वाजे᳚षु । अवृ᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
सहावा सहोबलंतद्वान् देवोदानादिगुणयुक्तोग्निः विद्मना ज्ञानेनयुक्तःसन् तं मर्तं म्नुष्यं यजमानं निदोनिन्दकात् उरुष्यति रक्षति ही- तिपूरकः यस्यमर्तस्य रयिः हविर्लक्षणंधनं अवृतः रक्षःप्रभूतिभिरनाच्छादितं वाजेषु यज्ञेषु अवृतः अन्यैर्यजमानैरसंभक्तं तं हविष्मन्तं यजमानं उरुष्यतीत्यन्वयः ॥ ५ ॥