श्रवणम्

6.14.4 समानपद
अ॒ग्निर॒प्सामृ᳚ती॒षहं᳚ वी॒रं द᳚दाति॒ सत्प᳚तिम् ।
यस्य॒ त्रस᳚न्ति॒ शव᳚सः सं॒चक्षि॒ शत्र᳚वो भि॒या ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒॑सह᳚म् । वी॒रम् । द॒दा॒ति॒ । सत्॑प᳚तिम् ।
यस्य᳚ । त्रस᳚न्ति । शव᳚सः । स॒म्॑चक्षि᳚ । शत्र᳚वः । भि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः वीरंपुत्रं ददाति स्तोतृभ्यः प्रयच्छति कीदृशंपुत्रंअप्सां अपामाप्तव्यानांकर्मणां सनितारं संभक्तारं ऋतीषहं ऋतीनां अरा- तीनां सोढारं अभिभवितारं सत्पतिं सतांकर्मणांपालयितारं यस्यवीरस्य संचक्षि संदर्शनेसति शवसोबलात् भियाभीत्या शत्रवस्त्रसन्ति उद्विजन्ते तंवीरमित्यन्वयः ॥ ४ ॥