श्रवणम्

6.44.20
आ ते᳚ वृष॒न्वृष᳚णो॒ द्रोण᳚मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः ।
इन्द्र॒ प्र तुभ्यं॒ वृष᳚भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । वृ॒ष॒न् । वृष᳚णः । द्रोण᳚म् । अ॒स्थुः॒ । घृ॒त॒॑प्रुषः᳚ । न । ऊ॒र्मयः᳚ । मद᳚न्तः ।
इन्द्र᳚ । प्र । तुभ्य᳚म् । वृष᳚॑भिः । सु॒ताना᳚म् । वृष्णे᳚ । भ॒र॒न्ति॒ । वृ॒ष॒भाय᳚ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषन् कामानांवर्षितरिन्द्र वृषणःसेक्तारोयुवानःत्वदीयाअश्वाःघृतप्रुषोनोर्मयः घृतमुदकंसिंचन्तः सामुद्राःतरंगाइवमदन्तः हृष्यन्तः मत्ताःसन्तःतेत्वदीयंद्रोणंद्रुममयंरथंआस्थुः आस्थितवन्तः अतस्त्वमागच्छेतिभावः कुतइत्यतआह हेइन्द्र वृष्णेयूनेनित्यतरुणायवृषभाय- कामानांवर्षयित्रेतुभ्यं वृषभिःकामाभिवर्षकैः ग्रावभिःसुतानामभिषुतानांसोमानांमध्येत्वद्भागरूपंसोमंयस्मादध्वर्यवः प्रभरन्ति प्रहरन्ति होमार्थंप्रणयन्ति तस्मादागच्छेत्यर्थः ॥ २० ॥