अवि᳚द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान्पपा॒नो दे॒वेभ्यो॒ वस्यो᳚ अचैत् ।
स॒स॒वान्त्स्तौ॒लाभि᳚र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर᳚भव॒त्सखि᳚भ्यः ॥
स॒स॒वान्त्स्तौ॒लाभि᳚र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर᳚भव॒त्सखि᳚भ्यः ॥
पदपाठः (Word-by-word)
अवि᳚दत् । दक्ष᳚म् । मि॒त्रः । नवी᳚यान् । प॒पा॒नः । दे॒वेभ्यः᳚ । वस्यः᳚ । अ॒चै॒त् ।
स॒स॒॑वान् । स्तौ॒लाभिः᳚ । धौ॒तरी᳚भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि᳚॑भ्यः ॥
स॒स॒॑वान् । स्तौ॒लाभिः᳚ । धौ॒तरी᳚भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि᳚॑भ्यः ॥
सायणभाष्यम् (Sayana Commentary)
सइन्द्रः दक्षंकर्मसुममर्थं प्रवृद्धंवायष्टारं अविदत् जानाति कीदृशःमित्रोमित्रभूतः नवीयान् नवतरः कल्याणतरःस्तुत्यतरोवा सचपपा- नःसोमंपिबन् देवेभ्यःस्तोतृभ्यः वस्योवसीयः श्रेष्ठंधनंअचैत् चिनोति उपचितंकरोति ददातीतियावत् अपिच ससवान्ससमित्यन्ननाम ह- विर्लक्षणान्नोपेतः सइन्द्रः स्तौलाभिःस्थूलाभिःप्रवृद्धाभिः धौतरीभिःकंपनकारिणीभिर्वडवाभिः ईदृशैर्मरुद्भिर्वायुक्तःसन् सखिभ्यःस्तोतृ- भ्यःउरुष्यारक्षणेच्छयाआगत्यपायुरभवत् रक्षकोभवति यद्वा ससवानितिसनतेः क्वसौरूपं स्तौलाभिर्धौतरीभिःससवान् संभजमानइति- संबंधः ॥ ७ ॥