अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य᳚प्र॒ती ज᳚घान ।
तमु॒ प्र हो᳚षि॒ मधु᳚मन्तमस्मै॒ सोमं᳚ वी॒राय᳚ शि॒प्रिणे॒ पिब᳚ध्यै ॥
तमु॒ प्र हो᳚षि॒ मधु᳚मन्तमस्मै॒ सोमं᳚ वी॒राय᳚ शि॒प्रिणे॒ पिब᳚ध्यै ॥
पदपाठः (Word-by-word)
अ॒स्य । मदे᳚ । पु॒रु । वर्पां᳚सि । वि॒द्वान् । इन्द्रः᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति । ज॒घा॒न॒ ।
तम् । ऊं॒ इति᳚ । प्र । हो॒षि॒ । मधु᳚॑मन्तम् । अ॒स्मै॒ । सोम᳚म् । वी॒राय᳚ । शि॒प्रिणे᳚ । पिब᳚ध्यै ॥
तम् । ऊं॒ इति᳚ । प्र । हो॒षि॒ । मधु᳚॑मन्तम् । अ॒स्मै॒ । सोम᳚म् । वी॒राय᳚ । शि॒प्रिणे᳚ । पिब᳚ध्यै ॥
सायणभाष्यम् (Sayana Commentary)
अस्यसोमस्यपानेनमदेहर्षेसति विद्वान् अभिज्ञइन्द्रः पुरुपुरूणिबहूनिवर्पांसि आवरकाणिवृत्राणिशत्रून् अप्रतिस्वयमन्यैरप्रतिगतःसन् जघान हतवान् यद्वा वर्पइतिरूपनाम बहूनि वर्पांसिअसुरमाययानिर्मितानि रूपाणि विद्वान् जानन्निन्द्रः वृत्राण्यावरकाणिरक्षःप्रभृतीनि इतःपूर्वमन्यैरप्रतिगतानि जघानहतवान् मधुमन्तंमाधुर्यवन्तंतमुतमेवसोमंशिप्रिणेशोभनहनुकायअस्मैवीराय शत्रूणांवारयित्रेइन्द्राय पि- बध्यैपातुंप्रहोषि हेअध्वर्योप्रजुहुधि ॥ १४ ॥ द्वितीयेरात्रिपर्यायेमैत्रावरुणस्यैवपातासुतमितिशस्त्रयाज्या सूत्रितंच—पातासुतमिन्द्रोअस्तुसोमंहन्तावृत्रमितियाज्येति ।