श्रवणम्

6.44.11 समानपद
मा जस्व᳚ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः᳚ स॒ख्ये रि᳚षाम ।
पू॒र्वीष्ट᳚ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु᳚ष्वी॒न्प्र वृ॒हापृ᳚णतः ॥
▶ पदपाठः (Word-by-word)
मा । जस्व᳚ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः᳚ । स॒ख्ये । रि॒षा॒म॒ ।
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒॑सिधः᳚ । जने᳚षु । ज॒हि । असु᳚स्वीन् । प्र । वृ॒ह॒ । अपृ᳚णतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषभ कामानांवर्षितरिन्द्र जस्वने जसिरुपक्षयकर्मा उपक्षयित्रे राक्षसादये नोस्मान् माररीथाः मादाः रेवतोधनवतस्तेतवसख्येस- खित्वेवर्तमानावयंमारिषाम हिंसितामाभूम हेइन्द्र तेत्वदीयाःपूर्वीःबह्वीः निःषिधःनिःषेधाः निवारणानिजनेषुशत्रुनिहिताःसन्ति यद्वा निःषिधोनिषेधार्थारज्जवः ताःशत्रुजनेषुतवबत्द्भ्योविद्यन्ते अतः कारणात् असुस्वीन् अनभिषोतॄन् अयजमानान् जहि मारय अपृणतः हवींष्यप्रयच्छतश्चप्रवृह उन्मूलय पृणदानेइतिधातुः ॥ ११ ॥