श्रवणम्

6.52.13
विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये अ॒न्तरि᳚क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ᳚ग्निजि॒ह्वा उ॒त वा॒ यज᳚त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि᳚ मादयध्वम् ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव᳚म् । मे॒ । ये । अ॒न्तरि᳚क्षे । ये । उप᳚ । द्यवि᳚ । स्थ ।
ये । अ॒ग्नि॒॑जि॒ह्वाः । उ॒त । वा॒ । यज᳚त्राः । आ॒॑सद्य᳚ । अ॒स्मिन् । ब॒र्हिषि᳚ । मा॒द॒य॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविश्वेदेवाः मेमदीयमिमंहवंआह्वानंश्रृणुत येयूयं अन्तरिक्षेस्थ अन्तरिक्षलोकेवर्तमानाभवथ येचउपतत्समीपस्थेभूलोकेभवथ येच- द्यविद्युलोकेस्थ येचाग्निजिह्वाः अग्निर्जिह्वास्थानीयोयेषां यद्वा अग्नेर्जिह्वा तयापोष्यमाणत्वात् जिव्हाइत्युच्यन्ते उतवा अपिवा येय- जत्राः यजनीयाः तेसर्वेयूयंआस्तीर्णेस्मिन् बर्हिषि आसद्योपविश्यमादयध्वं सोमेनात्मानंतर्पयथ ॥ १३ ॥