श्रवणम्

6.52.9
उप᳚ नः सू॒नवो॒ गिरः᳚ शृ॒ण्वन्त्व॒मृत᳚स्य॒ ये ।
सु॒मृ॒ळी॒का भ᳚वन्तु नः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । सू॒नवः᳚ । गिरः᳚ । शृ॒ण्वन्तु᳚ । अ॒मृत᳚स्य । ये ।
सु॒॑मृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृतस्यमरणरहितस्यप्रजापतेः यसूनवः पुत्राः नेदेवाःनोस्माकंगिरःस्तुतीः उपशृण्वन्तु नोस्माकंसुमृळीकाः सुष्ठुमृडयितारः सुखयि- तारश्चभवन्तु ॥ ९ ॥