यो वो᳚ देवा घृ॒तस्नु᳚ना ह॒व्येन᳚ प्रति॒भूष᳚ति ।
तं विश्व॒ उप᳚ गच्छथ ॥
तं विश्व॒ उप᳚ गच्छथ ॥
पदपाठः (Word-by-word)
यः । वः॒ । दे॒वाः॒ । घृ॒त॑स्नु᳚ना । ह॒व्येन᳚ । प्र॒ति॒॑भूष᳚ति ।
तम् । विश्वे᳚ । उप᳚ । ग॒च्छ॒थ॒ ॥
तम् । विश्वे᳚ । उप᳚ । ग॒च्छ॒थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः वोयुश्मान् योजनः घृतस्नुना घृतप्रक्षरणेनहव्येनहविषाप्रतिभूषति परिचरति तंजनंविश्वेसर्वेयूयं उपगच्छथ उपगताभवथ ॥ ८ ॥