श्रवणम्

6.52.15
ये के च॒ ज्मा म॒हिनो॒ अहि᳚माया दि॒वो ज᳚ज्ञि॒रे अ॒पां स॒धस्थे᳚ ।
ते अ॒स्मभ्य᳚मि॒षये॒ विश्व॒मायु॒ः क्षप᳚ उ॒स्रा व᳚रिवस्यन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
ये । के । च॒ । ज्मा । म॒हिनः᳚ । अहि᳚॑मायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒ध॑स्थे᳚ ।
ते । अ॒स्मभ्य᳚म् । इ॒षये᳚ । विश्व᳚म् । आयुः᳚ । क्षपः᳚ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिनोमहान्तः अहिमायाः मायेतिप्रज्ञानाम आहन्तृप्रज्ञाः एवंभूतायेकेचनदेवाः ज्मा पृथिवीनामैतत् पृथिव्यांजज्ञिरे प्रादुर्बभूवः येके- चन दिवोद्युलोकत् जज्ञिरे येकेचनअपांसधस्थे सहमादनेस्थाने अन्तरिक्षेजज्ञिरे तेसर्वेदेवाः अस्मभ्यं इषये इष्यतइतिइषिःपुत्रादिः तस्मै- च विश्वंसर्वमायुरन्नंजीवनंवाक्षपः सर्वारात्रीः उस्राः सर्वाण्यहानिच सर्वदानैरंतर्येणवरिवस्यन्तु प्रयच्छन्तु ॥ १५ ॥