विश्वे᳚ दे॒वा मम᳚ शृण्वन्तु य॒ज्ञिया᳚ उ॒भे रोद᳚सी अ॒पां नपा᳚च्च॒ मन्म᳚ ।
मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒ अन्त᳚मा मदेम ॥
मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒ अन्त᳚मा मदेम ॥
पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । मम᳚ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः᳚ । उ॒भे इति᳚ । रोद᳚सी॒ इति᳚ । अ॒पाम् । नपा᳚त् । च॒ । मन्म᳚ ।
मा । वः॒ । वचां᳚सि । प॒रि॒॑चक्ष्या᳚णि । वो॒च॒म् । सु॒म्नेषु᳚ । इत् । वः॒ । अन्त᳚माः । म॒दे॒म॒ ॥
मा । वः॒ । वचां᳚सि । प॒रि॒॑चक्ष्या᳚णि । वो॒च॒म् । सु॒म्नेषु᳚ । इत् । वः॒ । अन्त᳚माः । म॒दे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
यज्ञियायज्ञार्हाविश्वेदेवाः मममदीयं मन्ममननीयं स्तोत्रं श्रृण्वन्तु चित्तेवधारयन्तु तथाउभेरोदसी द्यावापृथिव्यौअपांनपात् मध्य- मस्थानोग्निश्च अस्मदीयंस्तो त्रंश्रृण्वन्तु अथप्रत्यक्षकृतः हेदेवाः वोयुष्मभ्यंपरिचक्ष्याणि वर्जनीयानि वचांसिस्तोत्राणि मावोचंमाब्रवीमि अपितुसमीचीनानिअतोवोयुष्माकमन्तमाः अन्तिकतमाःसन्तोवयं सुम्नेष्वित् युष्माभिर्दत्तेषुसुखेष्वेववर्तमानाः मदेम मोदेम ॥ १४ ॥ आग्रयणेवैश्वदेवस्ययेकेचज्मेतियाज्या सूत्रितंच—विश्वेदेवासआगतयेकेचज्मामहिनोअहिमायाइति । वैश्वदेवपुरोडाशस्यैषैवायाज्या सूत्रमुदाहृतम् ।