स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग᳚ण॒स्त्वष्टृ᳚मान्मि॒त्रो अ᳚र्य॒मा ।
इ॒मा ह॒व्या जु᳚षन्त नः ॥
इ॒मा ह॒व्या जु᳚षन्त नः ॥
पदपाठः (Word-by-word)
स्तो॒त्रम् । इन्द्रः᳚ । म॒रुत्॑ग᳚णः । त्वष्टृ᳚॑मान् । मि॒त्रः । अ॒र्य॒मा ।
इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥
इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
मरुद्गणः मरुतोगणभूताः परिजनभूतायस्यतादृशइन्द्रः त्वष्टृमान् त्वष्टृसहितोमित्रोर्यमाच नोस्माकंस्तोत्रं इमाहव्या इमानिहवींषिच जुषन्त सेवंतां ॥ ११ ॥