श्रवणम्

6.52.2
अति᳚ वा॒ यो म᳚रुतो॒ मन्य᳚ते नो॒ ब्रह्म᳚ वा॒ यः क्रि॒यमा᳚णं॒ निनि᳚त्सात् ।
तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि᳚ सन्तु ब्रह्म॒द्विष᳚म॒भि तं शो᳚चतु॒ द्यौः ॥
▶ पदपाठः (Word-by-word)
अति᳚ । वा॒ । यः । म॒रु॒तः॒ । मन्य᳚ते । नः॒ । ब्रह्म᳚ । वा॒ । यः । क्रि॒यमा᳚णम् । निनि᳚त्सात् ।
तपूं᳚षि । तस्मै᳚ । वृ॒जि॒नानि᳚ । स॒न्तु॒ । ब्र॒ह्म॒॑द्विष᳚म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यःपुरुषोनोस्मानतिमन्यतेअतीत्यस्वस्याधिक्यंमन्यतेअस्मत्तोपिस्वयमधिकइतिबुध्यतेअस्माभिःक्रियमाणंब्रह्मस्तोत्रंवायोनि- नित्सात् निन्दितुमिच्छेत् तस्मैपुरुषायतपूंषितेजांसिवृजिनानिबाधकानिसन्तुभवन्तुब्रह्मद्विषन्तंशत्रुंद्यौरादित्यश्चअभिशोचतुअभितपतु- अभिदहतु ॥ २ ॥