श्रवणम्

6.32.3
स वह्नि᳚भि॒रृक्व᳚भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु᳚भिः पुरु॒कृत्वा᳚ जिगाय ।
पुरः᳚ पुरो॒हा सखि᳚भिः सखी॒यन्दृ॒ळ्हा रु᳚रोज क॒विभि᳚ः क॒विः सन् ॥
▶ पदपाठः (Word-by-word)
सः । वह्नि᳚॑भिः । ऋक्व᳚॑भिः । गोषु᳚ । शश्व᳚त् । मि॒तज्ञु᳚॑भिः । पु॒रु॒॑कृत्वा᳚ । जि॒गा॒य॒ ।
पुरः᳚ । पु॒रः॒॑हा । सखि᳚॑भिः । स॒खि॒॑यन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒वि॑भिः᳚ । क॒विः । सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुकृत्वा बहुकर्मकृत् सइन्द्रः वह्रिभिः ह्विषांवोढृभिः ऋक्वभिः सोतृभिः शश्वत् सर्वदा मितज्ञुभिः संकुचितजानुभिः अंगिरोभिःसह गोषुनिमित्तभूतेषु जिगाय असुरान् जितवान् जित्वाच पुरोहा पुराणांहन्ता सइन्द्रः सखिभिः समानख्यानैः कविभिः क्रान्तप्रज्ञैरंगिरोभिः सह सखीयन् सखित्वमात्मनइच्छन् कविःसन् स्वयमपिक्रान्तप्रज्ञोभवन् दृह्ळा स्थिरा पुरः आसुरीःपुरीरुरोजबभंज ॥ ३ ॥