स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः ।
स्वा॒धीभि॒रृक्व᳚भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ॥
स्वा॒धीभि॒रृक्व᳚भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ॥
पदपाठः (Word-by-word)
सः । मा॒तरा᳚ । सूर्ये᳚ण । क॒वी॒नाम् । अवा᳚सयत् । रु॒जत् । अद्रि᳚म् । गृ॒णा॒नः ।
सु॒॑आ॒धीभिः᳚ । ऋक्व᳚॑भिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया᳚णाम् । अ॒सृ॒ज॒त् । नि॒॑दान᳚म् ॥
सु॒॑आ॒धीभिः᳚ । ऋक्व᳚॑भिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया᳚णाम् । अ॒सृ॒ज॒त् । नि॒॑दान᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सइन्द्रः मातरा मातरौ दिवंचपृथिवींच कवीनां क्रान्तदर्शिनामंगिरसामर्थाय सूर्येण अवासयत् प्राकाशयत् किंकुर्वन् अद्रिं गवामदर्श- नाय बलेनस्थापितंपर्वतं रुजद्भंजन् यद्वा कवीनामंगिरसामितितृतीयार्थेषष्ठी अंगिरोभिर्गृणानःस्तूयमानइतिसंबन्धः अपिच स्वाधीभिः शोभनध्यानैरृक्वभिःस्तोतृभिः अंगिरोभिर्वावशानःपुनःपुनःकाम्य्दमानःसन् उस्रियाणां बलस्यभृत्यैःपणिभिरपहृतानांगवां निदानं बंधनं उदसृजत् अमोचयत् ॥ २ ॥