श्रवणम्

6.3.1 समानपद
अग्ने॒ स क्षे᳚षदृत॒पा ऋ᳚ते॒जा उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ ।
यं त्वं मि॒त्रेण॒ वरु᳚णः स॒जोषा॒ देव॒ पासि॒ त्यज᳚सा॒ मर्त॒मंहः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । सः । क्षे॒ष॒त् । ऋ॒त॒॑पाः । ऋ॒ते॒॑जाः । उ॒रु । ज्योतिः᳚ । न॒श॒ते॒ । दे॒व॒॑युः । ते॒ ।
यम् । त्वम् । मि॒त्रेण᳚ । वरु᳚णः । स॒॑जोषाः᳚ । देव᳚ । पासि᳚ । त्यज᳚सा । मर्त᳚म् । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सयजमानः क्षेषत् क्षयति निवसति चिरकालंजीवेदित्यर्थः कीदृशोयजमानः ऋतपाः ऋतस्ययज्ञस्य पालकः ऋतेजाः यज्ञनि- मित्तंजातः उषित्वाच तेत्वदियं देवयुर्देवानात्मनइच्छन् सयजमानः उरुविस्तीर्णं ज्योतिःसूर्याख्यं नशते प्राप्नोति हेदेव द्योतमानाग्ने यं मर्तं मनुष्यंयजमानं मित्रेण वरुणः तृतीयार्थेप्रथमा वरुणेनच सजोषाः सहप्रीयमाणस्त्वं त्यजसा त्याजनसाधनेनायुधेनांहःअंहसःपापात् पासि रक्षसि सयजमानइतिपर्वत्रसंबन्धः ॥ १ ॥