ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚ अस्य॒ भस॒दश्वो॒ न य᳚मसा॒न आ॒सा ।
वि॒जेह᳚मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष᳚त् ॥
वि॒जेह᳚मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष᳚त् ॥
पदपाठः (Word-by-word)
ति॒ग्मम् । चि॒त् । एम᳚ । महि᳚ । वर्पः᳚ । अ॒स्य॒ । भस᳚त् । अश्वः᳚ । न । य॒म॒सा॒नः । आ॒सा ।
वि॒॑जेह᳚मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु᳚ । धक्ष᳚त् ॥
वि॒॑जेह᳚मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु᳚ । धक्ष᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
अस्याग्नेः एम गमनभूतोमार्गः तिग्मं तीक्ष्णं स्प्रष्टुमशक्यत्वात् अस्यचवर्पोरूपं महि महत् प्रभूतं भसत् दीप्यते भसभर्त्सनदीप्त्योरिति- धातुः कीदृशोग्निः अश्वोन अश्वइव आसा आस्येन यमसानः तृणादिकंनियच्छन् तथापरशुर्न यथापरशुःस्वकीयांधारांकाष्ठेप्रक्षिपति तथा- स्वकीयांजिह्वांज्वालांविजेहमानःतरुगुल्मादौप्रक्षिपन् तथा दारु काष्ठं धक्षत् दहन् द्रविर्न द्रविर्द्रावयिता स्वर्णकारः सयथा स्वर्णादिकं- द्रावयति तथा सर्वंवनंद्रावयति मूर्तभूतंसर्वंभस्मसात्करोतीत्यर्थः ॥ ४ ॥