यास्ते᳚ पूष॒न्नावो᳚ अ॒न्तः स᳚मु॒द्रे हि᳚र॒ण्ययी᳚र॒न्तरि᳚क्षे॒ चर᳚न्ति ।
ताभि᳚र्यासि दू॒त्यां सूर्य᳚स्य॒ कामे᳚न कृत॒ श्रव᳚ इ॒च्छमा᳚नः ॥
ताभि᳚र्यासि दू॒त्यां सूर्य᳚स्य॒ कामे᳚न कृत॒ श्रव᳚ इ॒च्छमा᳚नः ॥
पदपाठः (Word-by-word)
याः । ते॒ । पू॒ष॒न् । नावः᳚ । अ॒न्तरिति᳚ । स॒मु॒द्रे । हि॒र॒ण्ययीः᳚ । अ॒न्तरि᳚क्षे । चर᳚न्ति ।
ताभिः᳚ । या॒सि॒ । दू॒त्याम् । सूर्य᳚स्य । कामे᳚न । कृ॒त॒ । श्रवः᳚ । इ॒च्छमा᳚नः ॥
ताभिः᳚ । या॒सि॒ । दू॒त्याम् । सूर्य᳚स्य । कामे᳚न । कृ॒त॒ । श्रवः᳚ । इ॒च्छमा᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
हेपूषन् तेत्वदीयाःयाहिरण्ययीःहिरण्मय्यः हितरमणीयानावः समुद्रेउदधावन्तर्मध्येअन्तरिक्षेनभसिचचरन्ति संचरन्ति ताभिर्नौभिः सूर्यस्यदूत्यंयासिगच्छसि कदाचित् देवैः सार्धंसूर्येअसुरवधार्थंप्रस्थितेसति तस्यभार्यास्वभर्तरिसंजातोत्सुकाबभूव तांप्रतिसूर्यःपूषणंप्राहै- षीत् तेनचा त्रपूषास्तूयते अपिचत्वंश्रवोहविर्लक्षणमन्नंइच्छमानः इच्छन् कामेनपश्वादिविषयेण स्तोतृभिः कृतः वशीकृतोसि ॥ ३ ॥