अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚ अस्य स॒त्रा द᳚धिरे॒ अनु᳚ वी॒र्या᳚य ।
स्यू॒म॒गृभे॒ दुध॒ये॑र्व᳚ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि᳚ वृत्र॒हत्ये᳚ ॥
स्यू॒म॒गृभे॒ दुध॒ये॑र्व᳚ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि᳚ वृत्र॒हत्ये᳚ ॥
पदपाठः (Word-by-word)
अनु᳚ । प्र । ये॒जे॒ । जनः᳚ । ओजः᳚ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु᳚ । वी॒र्या᳚य ।
स्यू॒म॒॑गृभे᳚ । दुध᳚ये । अर्व᳚ते । च॒ । क्रतु᳚म् । वृ॒ञ्ज॒न्ति॒ । अपि᳚ । वृ॒त्र॒॑हत्ये᳚ ॥
स्यू॒म॒॑गृभे᳚ । दुध᳚ये । अर्व᳚ते । च॒ । क्रतु᳚म् । वृ॒ञ्ज॒न्ति॒ । अपि᳚ । वृ॒त्र॒॑हत्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्येन्द्रस्य ओजोबलं जनोयजमानः अनुप्रयेजे सन्ततंप्रकर्षेणयजतेपूजयति अपिच तमिन्द्रं वीर्याय वीरकर्मकर्तुं सत्रा सत्यं अनुदधिरे पुरोदधिरे यजमानाः यद्वा सत्रा महान्तमिन्द्रमितियोज्यं अपिच स्यूमगृभे स्यूम्नः स्यूतान् अविच्छेदेनवर्तमानान् शत्रून् गृह्णते दुधये दु- धिर्हिसाकर्मा तेषांहिंसकाय अर्वते शत्रूणामभिगंत्रेच तस्माइन्द्राय क्रतुं कर्मपरिचरणात्मकं वृंजन्ति निष्पादयन्ति किमर्थं वृत्रहत्ये वृत्रस्यवारकस्यशत्रोर्हनननिमित्तम् ॥ २ ॥