तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः᳚ सश्चु॒रिन्द्र᳚म् ।
स॒मु॒द्रं न सिन्ध᳚व उ॒क्थशु᳚ष्मा उरु॒व्यच᳚सं॒ गिर॒ आ वि᳚शन्ति ॥
स॒मु॒द्रं न सिन्ध᳚व उ॒क्थशु᳚ष्मा उरु॒व्यच᳚सं॒ गिर॒ आ वि᳚शन्ति ॥
पदपाठः (Word-by-word)
तम् । स॒ध्रीचीः᳚ । ऊ॒तयः᳚ । वृष्ण्या᳚नि । पौंस्या᳚नि । नि॒॑युतः᳚ । सश्चुः᳚ । इन्द्र᳚म् ।
स॒मु॒द्रम् । न । सिन्ध᳚वः । उ॒क्थ॑शु᳚ष्माः । उ॒रु॒॑व्यच᳚सम् । गिरः᳚ । आ । वि॒श॒न्ति॒ ॥
स॒मु॒द्रम् । न । सिन्ध᳚वः । उ॒क्थ॑शु᳚ष्माः । उ॒रु॒॑व्यच᳚सम् । गिरः᳚ । आ । वि॒श॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
तंइंद्रं ऊतयोमरुतः सध्रीचीः सहांचंत्यः संगताभूत्वा सश्चुः सचन्ते यद्वा ऊतयस्तर्पकाण्यन्नानिसहवर्तमानानिभूत्वा सेवन्ते तथा वृष्ण्यान्हि वीर्याणिपौंस्यानि बलानिच नियुतोरथेयुज्यमानावडवाश्च तमिन्द्रं सेवन्ते अपिच उक्थशुष्माः उक्थंशस्त्रं तदेवशुष्मबलं यासां तादृशागिरः स्तुतयश्च उरुव्यचसं विस्तीर्णव्याप्तिकं तमिन्द्रं आविशन्ति प्रविशन्ति तत्रदृष्टान्तः—समुद्रंनसिन्धवः यथास्यन्दन- शीलानद्यः समुद्रमाविशंति आविश्यच विभक्ततयानदृश्यन्ते एवंसर्वाअपिस्तुतयः इन्द्रेणैकीभवन्तीत्यर्थः ॥ ३ ॥