श्रवणम्

6.36.5
स तु श्रु᳚धि॒ श्रुत्या॒ यो दु᳚वो॒युर्द्यौर्न भूमा॒भि रायो᳚ अ॒र्यः ।
असो॒ यथा᳚ न॒ः शव᳚सा चका॒नो यु॒गेयु᳚गे॒ वय᳚सा॒ चेकि᳚तानः ॥
▶ पदपाठः (Word-by-word)
सः । तु । श्रु॒धि॒ । श्रुत्या᳚ । यः । दु॒वः॒॑युः । द्यौः । न । भूम᳚ । अ॒भि । रायः᳚ । अ॒र्यः ।
असः᳚ । यथा᳚ । नः॒ । शव᳚सा । च॒का॒नः । यु॒गे॑यु᳚गे । वय᳚सा । चेकि᳚तानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्रुत्या श्रुत्यानि श्रोतव्यानि स्तोत्राणि तु क्षिप्रं श्रुधि श्रृणु यस्त्वं दुवोयुः अस्मदीयंपरिचरणमात्मनइच्छन् अर्यः अरेःसंबन्धीनि रायोधनानि भूम बहुतराणि द्यौर्न सूर्यइवाभिभवसि सत्वं श्रुधीत्यन्वयः अपिच शवसा आत्मीयेनबलेन स्तोतव्येन युक्तश्चकानः स्तूयमा- नः युगेयुगे कालेकाले वयसा हविर्लक्षणेनान्नेन चेकितानः प्रज्ञायमानस्त्वं यथा येनप्रकारेणनोस्माकमसाधारणोसि तथा असः स्याः ॥ ५ ॥

अर्वाग्रथमितिपंचर्चंचतुर्दशंसूक्तं भरद्वाजस्यार्षं त्रिष्टुभमैन्द्रं अर्वाग्रथमित्यनुक्रान्तं महाव्रतेनिष्केवल्येउक्तोविनियोगः ।