श्रवणम्

6.36.4
स रा॒यस्खामुप᳚ सृजा गृणा॒नः पु᳚रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्व᳚ः ।
पति᳚र्बभू॒थास᳚मो॒ जना᳚ना॒मेको॒ विश्व᳚स्य॒ भुव᳚नस्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
सः । रा॒यः । खाम् । उप᳚ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒॑च॒न्द्रस्य᳚ । त्वम् । इ॒न्द्र॒ । वस्वः᳚ ।
पतिः᳚ । ब॒भू॒थ॒ । अस᳚मः । जना᳚नाम् । एकः᳚ । विश्व᳚स्य । भुव᳚नस्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र गृणानः स्तूयमानः सत्वं रायोधनस्य खां नदीनामैतत् अत्रतत्संबद्धाधारालक्ष्यते धारां उपसृज विमुंच अस्माभिःसंयोजयेत्यर्थः कीदृशस्यधनस्य पुरुश्चन्द्रस्य बहूनामाह्लादकस्य वस्वः निवासकस्य अपिच असमोनुपमः सर्वोत्क्रुष्टस्त्वं जनानां सर्वेषांप्राणिनां पतिर- धिपतिर्वभूथ बभूविथ तथा विश्वस्य सर्वस्य भुवनस्यभूतजातस्य एकःअसाधारणः राजा ईश्वरश्च बभूविथ ॥ ४ ॥