नू न᳚श्चि॒त्रं पु᳚रु॒वाजा᳚भिरू॒ती अग्ने᳚ र॒यिं म॒घव᳚द्भ्यश्च धेहि ।
ये राध᳚सा॒ श्रव᳚सा॒ चात्य॒न्यान्त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना᳚न् ॥
ये राध᳚सा॒ श्रव᳚सा॒ चात्य॒न्यान्त्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना᳚न् ॥
पदपाठः (Word-by-word)
नु । नः॒ । चि॒त्रम् । पु॒रु॒॑वाजा᳚भिः । ऊ॒ती । अग्ने᳚ । र॒यिम् । म॒घव᳚त्॑भ्यः । च॒ । धे॒हि॒ ।
ये । राध᳚सा । श्रव᳚सा । च॒ । अति᳚ । अ॒न्यान् । सु॒॑वीर्ये᳚भिः । च॒ । अ॒भि । सन्ति᳚ । जना᳚न् ॥
ये । राध᳚सा । श्रव᳚सा । च॒ । अति᳚ । अ॒न्यान् । सु॒॑वीर्ये᳚भिः । च॒ । अ॒भि । सन्ति᳚ । जना᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने मघवद्भ्योहविर्लक्षणधनयुक्तेभ्योनोस्मभ्यं पुरुवाजाभिर्बह्वन्नैः ऊती ऊतिभीरक्षणैः सह चित्रं चायनीयंरयिं धनं नु क्षिप्रं धेहि देहि प्रयच्छ चशब्दोवक्ष्यमाणेनसमुच्चयार्थः ये राधसाधनेन श्रवसान्नेनच सुवीर्येभिः शोभनैर्वीर्यैश्च अन्यान् जनान् मनुष्यानति अतिशयेनाभिसंति अभिभवन्ति तादृशान्पुत्रांश्चास्मभ्यंदेहीत्यर्थः ॥ ५ ॥