वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि᳚माः सु॒वीरा᳚ः ॥
पदपाठः (Word-by-word)
वि । द्वेषां᳚सि । इ॒नु॒हि । व॒र्धय᳚ । इळा᳚म् । मदे᳚म । श॒त॑हि᳚माः । सु॒॑वीराः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने द्वेषांसि द्वेष्टॄन् शत्रून् विइनुहि विविधंगमय इळामन्नंचास्मदीयंवर्धय वयंच सुवीराः शोभनैः वीरैः पुत्रपौत्रादिभिरुपेताःसन्तः शतहिमाः शतंहेमंतान् संवत्सरान् मदेम मोदेम तृप्ताभूयास्म ॥ ७ ॥
यजस्वहोतरितिषळृचमेकादशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं अनुक्रम्यतेच-यजस्वषळिति प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियो- गः ।