श्रवणम्

6.63.2
अरं᳚ मे गन्तं॒ हव᳚नाया॒स्मै गृ᳚णा॒ना यथा॒ पिबा᳚थो॒ अन्ध᳚ः ।
परि᳚ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त᳚रस्तुतु॒र्यात् ॥
▶ पदपाठः (Word-by-word)
अर᳚म् । मे॒ । ग॒न्त॒म् । हव᳚नाय । अ॒स्मै । गृ॒णा॒ना । यथा᳚ । पिबा᳚थः । अन्धः᳚ ।
परि᳚ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः᳚ । न । अन्त᳚रः । तु॒तु॒र्यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां मे मदीयायास्मै हवनायाह्वानाय अरं पर्याप्तं गन्तं गच्छतं गृणाना स्तूयमानौ अंधः सोमं यथा पिबाथः पिबतम् । रिषो हिंसकस्य शत्रोः त्यद्वर्तिः तद्गृहं परियाथः परितोयाथः यद्वर्तिः परो विप्रकृष्टो न तुतुर्यात् न हिंस्यात् अन्तरः संनिकृष्टोपि न तुतुर्यात् यद्वा त्यद्वर्तिः तदस्मदीयं गृहं रिषोहिंसकात्परियाथः । त्यद्वर्तिः परोविप्रकृष्टः अन्तरः सन्निकृष्ठोपि न तुतुर्यात् अयं भावः यथास्मदीयं गृहं दूरस्थः सन्निकृष्टोपि न हिंस्यात् तथा रक्षां कुरुथइति ॥ २ ॥