श्रवणम्

6.35.1
क॒दा भु᳚व॒न्रथ᳚क्षयाणि॒ ब्रह्म᳚ क॒दा स्तो॒त्रे स᳚हस्रपो॒ष्यं᳚ दाः ।
क॒दा स्तोमं᳚ वासयो॑स्य रा॒या क॒दा धियः᳚ करसि॒ वाज᳚रत्नाः ॥
▶ पदपाठः (Word-by-word)
क॒दा । भु॒व॒न् । रथ᳚॑क्षयाणि । ब्रह्म᳚ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒॑पो॒ष्य᳚म् । दाः॒ ।
क॒दा । स्तोम᳚म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः᳚ । क॒र॒सि॒ । वाज᳚॑रत्नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ब्रह्मणि ब्रह्माणि स्तोत्राण्यस्मदीयानि रथक्षयाणि रथनिवासानि कदाकस्मिन् काले भुवन् भवेयुः रथेवस्थितं त्वां कदाप्राप्नु- वन्तीत्यर्थः कदा कस्मिन् काले स्तोत्रे स्तुवते मह्यं सहस्रपोष्यं सहस्र संख्याकपुरुषपोषकं गोसमूहं पुत्रं वादाः दद्याः कदाच अस्यमम- स्तोतुः स्तोमं स्तोत्रं राया धनेन वासयः धियः कर्माणिचाग्निहोत्रादीनि वाजरत्नाः वाजैरन्नैः रमणीयाः कदाकस्मिन् काले करसि कुर्याः एवंस्तोता फलस्यविलंबमसहमानः इन्द्रमनयापृष्टवान् ॥ १ ॥