त्वं रथं॒ प्र भ᳚रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश᳚द्युम् ।
त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त᳚मिन्द्र तूतोः ॥
त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त᳚मिन्द्र तूतोः ॥
पदपाठः (Word-by-word)
त्वम् । रथ᳚म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः᳚ । युध्य᳚न्तम् । वृ॒ष॒भम् । दश᳚॑द्युम् ।
त्वम् । तुग्र᳚म् । वे॒त॒सवे᳚ । सचा᳚ । अ॒ह॒न् । त्वम् । तुजि᳚म् । गृ॒णन्त᳚म् । इ॒न्द्र॒ । तू॒तो॒रिति᳚ तूतोः ॥
त्वम् । तुग्र᳚म् । वे॒त॒सवे᳚ । सचा᳚ । अ॒ह॒न् । त्वम् । तुजि᳚म् । गृ॒णन्त᳚म् । इ॒न्द्र॒ । तू॒तो॒रिति᳚ तूतोः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं वृषभसंज्ञकायराज्ञे योधं युद्धसाधनं ऋष्वं महान्तंरथं प्रभरः प्रापयः अपिच युध्यन्तं शत्रुभिःसहयुद्धंकुर्वन्तं दशद्युं दशदिव- सायुध्यतोयस्यगताः तं वृषभमेतदाख्यंराजानमावःयुद्धादपीपलः किंच त्वं वेतसवे एतन्नाम्नेराज्ञे सचा सहायभूतःसन् तुग्रमसुरं हन् हत- वानसि वेतसुर्नामकश्चिदसुरः अत्रतस्मादन्योसावुच्यते यद्वा वेतसवइतितृतीयार्थेचतुर्थी वेतसुनासुरेण सहितं तुग्रं हतवानसि तथाचमं- त्रान्तरंश्रूयते—अहंपितेववेतसूँरभिष्टयेतुग्रंकुत्सायस्मदिभंचरन्धयमिति । हेइन्द्र त्वं गृणन्तं त्वांस्तुवन्तं तुजिमेतदाख्यंराजानं ततोरवर्ध- यः ॥ ४ ॥