त्वां वा॒जी ह᳚वते वाजिने॒यो म॒हो वाज᳚स्य॒ गध्य᳚स्य सा॒तौ ।
त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प᳚तिं॒ तरु᳚त्रं॒ त्वां च᳚ष्टे मुष्टि॒हा गोषु॒ युध्य᳚न् ॥
त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प᳚तिं॒ तरु᳚त्रं॒ त्वां च᳚ष्टे मुष्टि॒हा गोषु॒ युध्य᳚न् ॥
पदपाठः (Word-by-word)
त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज᳚स्य । गध्य᳚स्य । सा॒तौ ।
त्वाम् । वृ॒त्रेषु᳚ । इ॒न्द्र॒ । सत्॑प᳚तिम् । तरु᳚त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒॑हा । गोषु᳚ । युध्य᳚न् ॥
त्वाम् । वृ॒त्रेषु᳚ । इ॒न्द्र॒ । सत्॑प᳚तिम् । तरु᳚त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒॑हा । गोषु᳚ । युध्य᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
वाजी हविर्लक्षणान्नवान् वाजिनेयोवाजिन्याःपुत्रोभरद्वाजः हेइन्द्र त्वां गध्यस्य सर्वैः प्राप्यस्य महोमहतोवाजस्यान्नस्य सातौ लाभे- निमित्ते हवते स्तौति अपिच हेइन्द्र सत्पतिं सज्जनानांपालकं तरुत्रं दुर्जनानांतारकं त्वां वृत्रेषूपद्रवेषुनिमित्तेषु भरद्वाजोहवते मुष्टिहा मुष्टिबलेनशत्रूणांहन्ता गोषुनिमित्तभूतासु युध्यन् शत्रुभिःसहयुद्धंकुर्वन् भरद्वाजस्त्वां चष्ठे पश्यति प्रतिभालयते ॥ २ ॥