त्वं क॒विं चो᳚दयो॒॑र्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् ।
त्वं शिरो᳚ अम॒र्मण॒ः परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ॥
त्वं शिरो᳚ अम॒र्मण॒ः परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ॥
पदपाठः (Word-by-word)
त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्क॑सा᳚तौ । त्वम् । कुत्सा᳚य । शुष्ण᳚म् । दा॒शुषे᳚ । व॒र्क् ।
त्वम् । शिरः᳚ । अ॒म॒र्मणः᳚ । परा᳚ । अ॒ह॒न् । अ॒ति॒थि॒॑ग्वाय᳚ । शंस्य᳚म् । क॒रि॒ष्यन् ॥
त्वम् । शिरः᳚ । अ॒म॒र्मणः᳚ । परा᳚ । अ॒ह॒न् । अ॒ति॒थि॒॑ग्वाय᳚ । शंस्य᳚म् । क॒रि॒ष्यन् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं अर्कसातौ अन्नलाभार्थं कविं भार्गवमृषिं चोदयः अचोदयः प्रेरय किंच हे इन्द्र त्वं दाशुषे ह्विर्दत्तवतेकुत्साय शुष्णमसुरं वर्क् छेदितवानसि वर्गितिवृणक्तेःछेदनार्थस्य लुङिरूपं तथा त्वं अतिथिग्वाय अतिथोनामभिगंत्रे दिवोदासाय शंस्यं स्तुत्यंसुखंकरिष्यन् अमर्मणः मर्महीनमात्मानं मन्यमानस्यशंबरस्य शिरः शीर्षं पराहन्नवधीः ॥ ३ ॥