वि तद्य᳚युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस᳚श्च॒न्द्रर᳚थाः ।
अग्रं᳚ य॒ज्ञस्य᳚ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ॥
अग्रं᳚ य॒ज्ञस्य᳚ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ॥
पदपाठः (Word-by-word)
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्॑भिः᳚ । अश्वैः᳚ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः᳚ । च॒न्द्र॑र᳚थाः ।
अग्र᳚म् । य॒ज्ञस्य᳚ । बृ॒ह॒तः । नय᳚न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः᳚ । ऊर्म्या᳚याः ॥
अग्र᳚म् । य॒ज्ञस्य᳚ । बृ॒ह॒तः । नय᳚न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः᳚ । ऊर्म्या᳚याः ॥
सायणभाष्यम् (Sayana Commentary)
चन्द्ररथाःकान्तिरथाः चन्द्रश्चन्दतेःकान्तिर्मणइति यास्कः । ता उषसः तत् तदानीं प्रातःकाले बृहतो बृंहणशीलस्य यज्ञस्य अग्रं मुखं नयन्तीः संपादयंत्यः अरुणयुग्भिररुणवर्णयुक्तैरश्वैः विययुः विस्तीर्णं यान्ति चित्रं यथाभवति तथाभान्ति च ऊर्म्यायाः रात्रेः अक्तुः ऊर्म्येति रात्रिनामसु पाठात् तमो विबाधन्ते सम्यगपनयन्ति च ॥ २१ ॥