ए॒षा स्या नो᳚ दुहि॒ता दि᳚वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु᳚षीरजीगः ।
या भा॒नुना॒ रुश᳚ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम᳚सश्चिद॒क्तून् ॥
या भा॒नुना॒ रुश᳚ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम᳚सश्चिद॒क्तून् ॥
पदपाठः (Word-by-word)
ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒॑जाः । क्षि॒तीः । उ॒च्छन्ती᳚ । मानु᳚षीः । अ॒जी॒ग॒रिति᳚ ।
या । भा॒नुना᳚ । रुश᳚ता । रा॒म्यासु᳚ । अज्ञा᳚यि । ति॒रः । तम᳚सः । चि॒त् । अ॒क्तून् ॥
या । भा॒नुना᳚ । रुश᳚ता । रा॒म्यासु᳚ । अज्ञा᳚यि । ति॒रः । तम᳚सः । चि॒त् । अ॒क्तून् ॥
सायणभाष्यम् (Sayana Commentary)
एषा स्या सा दिवोजाः दिवोजाता अतएव दुहिता दिवः पुत्र्युषा नोस्मदर्थं उच्छंती तमांसि वर्जयन्ती क्षितीः प्रजाः मानुषी रजीगः उद्गिरति जीगर्तिर्गिरतिकर्मावेति यास्कः प्रकाशयतीति यावत् या रुशता दीप्यमानेन भानुना युक्ता राम्यासु याम्यासु रात्रिषु रेफयका- रयोर्व्यत्ययः अक्तून् नक्षत्रादि तेजांसि तमसश्चित् तमांसि च तिरस्तिरस्कुर्वती अज्ञायि दृश्यते ॥ १ ॥