अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू ऋ॒ता यद्गर्भ॒मदि᳚ति॒र्भर᳚ध्यै ।
प्र या महि᳚ म॒हान्ता॒ जाय᳚माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ॥
प्र या महि᳚ म॒हान्ता॒ जाय᳚माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ॥
पदपाठः (Word-by-word)
अश्वा᳚ । न । या । वा॒जिना᳚ । पू॒तब᳚न्धू॒ इति᳚ पू॒त॑ब᳚न्धू । ऋ॒ता । यत् । गर्भ᳚म् । अदि᳚तिः । भर᳚ध्यै ।
प्र । या । महि᳚ । म॒हान्ता᳚ । जाय᳚माना । घो॒रा । मर्ता᳚य । रि॒पवे᳚ । नि । दी॒ध॒रिति᳚ दीधः ॥
प्र । या । महि᳚ । म॒हान्ता᳚ । जाय᳚माना । घो॒रा । मर्ता᳚य । रि॒पवे᳚ । नि । दी॒ध॒रिति᳚ दीधः ॥
सायणभाष्यम् (Sayana Commentary)
या यौ अश्वान अश्वाविव वाजिना वाजिनौ बलिनौ पूतबन्धू पूतस्तोत्रौ ऋता सत्यौ च यत् यौ गर्भं गर्भभूतौ अदितिर्देवी भरध्यै बभार । किं च या यौ जायमाना जायमानायेव महि महतो महान्ता महत्तरौ प्रभूतौ मित्रावरुणौ मर्ताय मर्त्याय रिपवे हिंसकाय घोरा घोरौ घातकौ निदीधः निदधार अदितिः स्वोदरे ॥ ४ ॥